वाचस्पत्यम्
शूलाकृत || त्रि० शूलेन विद्धा कृतं पक्वम् शूल + डाच् + कृ- क्त । लौहादिकीलकेन विद्धा पक्वे मांसे (कावाव) अमरः
शब्दकल्पद्रुमः
शूलाकृतं || त्रि (शूलेन कृतम् । “शूलात् पाके ।” ५ । ४ । ६५ । इति डाच् ।)
लौहादिशलाकया विद्धं पक्वमांसम् । कावाव् इति पारस्यभाषा । तत्पर्य्यायः । भटित्रन् २ शूल्यम् ३ । इत्यमरः ॥ वासितारम् ४ । इति जटाधरः ॥ शूलिकम् ५ इति शब्दचन्द्रिका ॥ अस्य गुणाः शूल्यशब्दे द्रष्टव्याः ॥