वाचस्पत्यम्
शूलिक || त्रि० शूलं पाकसाधनत्वेनास्त्यस्य ठन् । १ शूला- कृते शब्दच० २ शशके हेमच० ३ शूलयुते त्रि० ।
शब्दकल्पद्रुमः
शूलिकं || क्ली (शूलः निमित्तत्वे नास्त्यस्येति । शूल + ठन् ।)
शूलाकृतम् । इति शब्दचन्द्रिका ॥
शब्दकल्पद्रुमः
शूलिकः || पुं, शशकः । इति हेमचन्द्रः ॥ (शूलः अस्यास्तीति । ठन् ।)
शूलयुक्ते, त्रि, ॥