संस्कृत-शब्दकोशः

शूलोत्खा शूल्यपाक

शूल्य

वाचस्पत्यम्

शूल्य ||‍ त्रि० शूले संस्कृतं यत् । शूलाकृते मांसे भावप्र० कृतान्नशब्दे तत्पाकादि २१८३ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

शूल्यं || त्रि (शूलेन संस्कृतम् । शूल + “शूलोत्खात् यत् ।” ४ । २ । १७ । इति यत्)
शूलाकृतम् । इत्यमरः ॥ कावाव् इति पारस्यभाषा । तत्- पाकप्रकारो यथा, —
“कालखण्डादिमांसानि ग्रथितानि शलाकया । घृतं सलवणं दत्त्वा निर्धूमे दहने पचेत् । तत्त शूल्यमिति प्रोक्तं पाककर्म्मविचक्षणैः ॥” अस्य गुणाः । “शूल्यं बल्यं सुधातुल्यं रुच्यं वह्निकरं लघु । कफवातहरं वृष्यं किञ्चित् पित्तहरं हि तत् ॥” इति भावप्रकाशः ॥ अस्य पर्य्यायः शूलाकृतशब्दे द्रष्टव्यः ॥



Correction: