वाचस्पत्यम्
शृगालकोलि || पु० शृगाल इव कण्टकितः कोलिः । (शेया- कुल) क्षुपभेदे रत्नमाला ।
शब्दकल्पद्रुमः
शृगालकोलिः || पुं, (शृगालप्रियः कोलिर्यस्य ।)
क्षुद्रकोलिवृक्षः । शेयाकुल् इति भाषा । तत्- पर्य्यायः । कर्कन्धुः २ । इति रत्नमाला ॥ अपिच । “अथ घोण्टा ३ गोपघोण्टा ४ वदरं ५ वादि- रञ्च ६ तत् । वदरीसदृशे सूक्ष्मफले वृक्षे चतुष्टयम् ॥” इति शब्दरत्नावली ॥