शब्दकल्पद्रुमः
शृङ्गबेरं || क्ली (शृङ्गस्येव बेरं शरीरं यस्य ।)
आर्द्रकम् । इत्यमरः ॥ शुण्ठी । इति राज- निर्घण्टः ॥ (यथा, सुश्रुते । १ । ३८ । “पिप्पलीमरीचशृङ्गबेराणि त्रिकटुकम् ॥”)
गुहचण्डालपुरम् । यथा, —
“मारुते गच्छ शीघ्रं त्वमयोध्यां भरतं प्रति । जानीहि कुशली कश्चित् जनो नृपतिमन्दिरे ॥ शृङ्गबेरपुरं गत्वा ब्रूहि मित्रं गुहं मम । जानकीलक्ष्मणोपेतमागतं मां निवेदय ॥” इत्यध्यात्मरामायणे लङ्काकाण्डे १४ अध्यायः ॥