वाचस्पत्यम्
शृङ्गला || स्त्री शृङ्गं तदाकारफलं लाति ला—क । अज- शृङ्ग्यां (गाडरशिङा) शब्दच० ।
शब्दकल्पद्रुमः
शृङ्गला || स्त्री (शृङ्गवत् लातीति । ला + कः ।) अजशृङ्गी । इति शब्दचन्द्रिका ॥