वाचस्पत्यम्
शृङ्गवत् || पु० शृङ्गं प्राशस्त्येनास्त्यस्य मतुप् मस्य वः । १ सी- मापर्वतभेदे तन्मानादिभाग० १५ । १६ अ० उक्तं यथा “उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो- रम्यकहिरण्मयकुरूणां वर्षाणां मार्य्यादागिरयः प्राना- यता उभयतः क्षारोदावधयः द्विसहस्वयोजनपृथव एकै- कशः पूर्वस्मात् पूर्बस्यादुत्तरोत्तरं दशांशाधिकांशेना दैर्घ्ये एव ह्रस्वन्ति” । २ शृङ्गयुते त्रि० ।
शब्दकल्पद्रुमः
शृङ्गवान् || [त्] पुं, (शृङ्गाणि सन्ति अस्येति । शृङ्ग + मतुप् । मस्य वः ।)
कुरुवर्षीयसीमा- पर्व्वतः । स तु दीर्घे ८०००० अशीतिसहस्र- योजनानि । प्रस्थे २००० द्विसहस्रयोजनानि । विस्तारे तयैव । यथा, —
“हिमवद्धेमकूटश्च निषधश्चास्य दक्षिणे । नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्व्वताः ॥ लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथा परे । सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥” इति विष्णुपुराणे २ अंशे २ अध्यायः ॥ लक्षप्रमाणौ द्वौ प्राक्पश्चिमतो दैर्ध्येण निषध- नीलौ । यद्यपि जम्बु द्वीपमण्डलाकारस्य लक्ष- योजनप्रमाणत्वान्मध्यरेखायामेव मुख्यं लक्ष- प्रमाणत्वम् । निषधनीलौ तु तन्मध्यरेखातो दक्षिणतश्चोत्तरतश्च सप्तदशयोजनसहस्रान्तरि- तत्वादीषन्न्यूनौ । तथापि स्थूलदृष्ट्या लक्ष- प्रमाणावित्युक्तम् । अपरे तु हेमकूटादयो दश- हीनादशदशन्यूनाः हेमकूटश्वेतौ नवतियोजन सहस्रप्रमाणौ हिमवच्छृङ्गिणावशीतियोजन- प्रमाणौ । तदुक्तं वाराहे । “द्वीपस्य मण्डलीभावात् ह्रासवृद्धी प्रकीर्त्तिते ॥” इति तट्टीकायां श्रीधरस्वामी ॥ भागवतमते दैर्घ्ये १०००० दशमहस्रयोजनानि प्रस्थे २००० द्विसहस्रयोजनानि । यथा । उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्य्यादा- गिरयः प्रागायता उभयतः क्षारोदावधयो द्विसहस्रयोजनपृथव एकैकशः पूर्व्वस्मात् पूर्व्व- स्मादुत्तरोत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति । एवं दक्षिणेनेलावृतं निषधो हेम- कूटो हिमालय इति प्रागायता यथा नीला- दयः । अयुतयोजनोत्सेधा हरिवर्षकिंपुरुष- भारतानां यथासंख्यम् ॥ इति श्रीभागवते ५ स्कन्धे १६ अध्यायः ॥