वाचस्पत्यम्
शृङ्गवेर || न० शृङ्गमिव वेरमवयवो यस्य । १ आर्द्रके अमरः । २ शुण्ठ्यां ३ राममित्रगुहकचण्डालपुरे च । स्वार्थे क । आर्द्रके हेमच० ।