संस्कृत-शब्दकोशः

शृङ्गारयोनि शृङ्गि

शृङ्गारिन्

वाचस्पत्यम्

शृङ्गारिन् ||‍ पु० शृङ्गारः उद्दीप्यत्वेनास्तास्य इनि । १ पूगे तत्फलभक्षणे हि कामोद्रेक इति तस्य तथात्वम् । २ गजे मेटि० । ३ सुवेशे त्रि० । ४ माणिक्ये पु० राजनि० ।


शब्दकल्पद्रुमः

शृङ्गारी || [न्] पुं, (शृङ्गारोऽस्यास्तीति । इनिः ।)
पूगः । गजः । सशृङ्गारः । सुवेशः । इति मेदिनी ॥ माणिक्यम् । इति राजनिर्घण्टः ॥



Correction: