संस्कृत-शब्दकोशः

शृङ्गिन् शृङ्गीकनक

शृङ्गी

वाचस्पत्यम्

शृङ्गी ||‍ स्त्री शृङ्गमस्त्यडा अच् गौरा० ङीष् । १ मद्गुरस्य प्रियायाम् अमरः । पृषो० ह्रस्वः । शृङ्गिरित्यपि तत्रार्थे शब्दर० । २ अतिविषायां ३ वृषभोषधौ अमरः । ४ कर्कट- शृङ्ग्याम् ५ प्लक्षे ६ विषे च० राजनि० । ७ भूपणस्वर्णे रत्नकोषः “मद्गुरस्यपिया शृङ्गी” इत्यमरे मद्गुरसी अप्रियेति नामद्वयम् । तेन (शिङी) मत्स्यस्यैवेदं नाम इति भरतः ।


शब्दकल्पद्रुमः

शृङ्गी || स्त्री (शृङ्गि + वा ङीष् ।)
मत्स्यविशेषः । शिङ्गी इति जियल इति च भाषा । तत्पर्य्यायः । मद्गुरप्रिया २ । इत्यमरः मधुश्च ॥ मद्गरी ३ । इति कलिङ्गः ॥ मद्गुरसी ४ अप्रिया ५ शृङ्गिः ६ । इति केचिदिति भरतः ॥ अस्या गुणाः । स्वादुरमत्वम् । स्निग्धत्वम् । बृंह- नत्वम् । कफकोपनत्वम् । शोथपाण्डुमरुत्पित्त- नाशित्वञ्च । इति राजवल्लभः ॥ अतिविषा । ऋषभौषधम् । इत्यमरः ॥ कर्कटशृङ्गी । प्लक्षः । वटः । विषम् । इति राजनिर्घण्टः ॥ अलङ्कार- सुवर्णम् । यथा । स्त्री शृङ्गी मण्डनस्वर्णे । इति भरतधृतरत्नकोषः ॥



Correction: