वाचस्पत्यम्
शृध || अपानशब्दे भ्वा० आ० वृता० लुङि ऌटि ऌङि च उभ० अक० सेट् क्त्वावेट् । शर्द्धते अशृधत् शत्र्स्यति शर्द्धिष्यते ।
वाचस्पत्यम्
शृध || ग्रहणे चु० उभ० सक० सेट् । शर्द्धयति ते अशशर्द्धत् त
वाचस्पत्यम्
शृध || छेदने भ्वा० उभ० सक० सेट् क्त्वा वेट् । शर्द्धति ते अशर्द्धीत् अशर्द्धिष्ट ।
शब्दकल्पद्रुमः
शृध || उ ञ क्लेदने । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-अक०-सेट् । क्त्वाविट् ।)
उ, शद्धित्वा शृद्ध्वा । ञ शर्द्धति शर्द्धते । क्लेदनमाद्रभावः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
शृध || व ऌङ उ पर्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०-सेट् । क्तावेट् ।)
व, शर्त्- स्यति शिशृत्सति । ऌ, अशृधत् । ङ, शर्धते । उ, शर्द्धित्वा शृद्ध्वा । पर्दोऽपानोत्सर्गः । शृधु प्रहसने इति चुरादिपरस्मैपदीधातुरन्यैर्न मन्यते । प्रहसनं विद्रवः । इति गोविन्दभट्टः । शर्द्धयति वृद्धं कुत्सितशब्दैर्बालः । इति रमा- नाथः । इति दुर्गादासः ॥