शब्दकल्पद्रुमः
शृधूः || पुं, (शृध + “नृतिशृध्योः कूः ।” उणा० १ । ९३ । इति कूः ।) कुत्सितः । अपानम् । इति संक्षिप्तसारोणादिवृत्तिः ॥