वाचस्पत्यम्
शेखर || पु० शिखि—गतौ अरन् पृषो० । १ शिखायां २ मूर्द्ध- स्थितमाल्ये च अमरः । ३ वन्दायां स्त्री शब्दर० ङीप् । ४ गीताङ्गे ध्रुवभेदे पु० तल्लक्षणं यथा “द्वादशाक्षरपादः स्यात् स चाल्पशुभकृत् प्रभोः । हासके च रसे वीरे गीयते शेखरो ध्रुवः । लघुर्गुरुर्भवेद्यत्त्र स भवेल्लघुशेखरः” संगीतदा० ।
शब्दकल्पद्रुमः
शेखरं || क्ली लवङ्गम् । इति राजनिर्घण्टः ॥ शिग्रु- मूलम् । इति शब्दचन्द्रिका ॥
शब्दकल्पद्रुमः
शेखरः || पुं, (शिखि गतौ + बाहुलकात् अरप्रत्य- येन साधुः ।)
शिखावस्थितमाल्यम् । इत्य- मरः ॥ यथा, —
“शिखाविन्यस्तमालायामापीडः शेखरोऽपि च ॥” इति शब्दरत्नावली ॥ (यथा, माघे । ११ । ४६ । “नवकरनिकरेण स्पष्टबन्धूकसून- स्तवकरचितमेते शेखरं बिभ्रतीव ॥” शिरोभूषणमात्रम् । यथा, कुमारे । ७ । ३२ । “बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः ॥”)
गीतस्य ध्रुवविशेषः । तल्लक्षणं यथा, —
“द्वादशाक्षरपादः स्यात् स चाल्पशुभकृत् प्रभोः । हंसके च रसे वीरे गीयते शेखरो ध्रुवः ॥” इति सङ्गीतदामोदरः ॥ लघुशेखरो यथा, —
“लघुर्गुरुर्भवेद्यत्र स भवेल्लघुशेखरः ॥” इति तत्रैव ॥ (शृङ्गम् । यथा, कथासरित्सागरे । २८ । १८९ । “ततोऽस्तगिरिशेखरं व्रजति वासरेशे शनैः सखीं पुनरुपागमप्रणयिणीं समापृच्छ्य ताम् । क्षणं जनितविस्मया गगनमार्गमुत्पत्य सा जगाम वसतिं निजां प्रसवमेव सोमप्रभा ॥”)