शब्दकल्पद्रुमः
शेफः || [स्] क्ली, (शेते रेतःपातानन्तरमिति । शी + “वृङ्शीङ्भ्यां स्वरूपाङ्गयोः पुट् च ।” उणा० ४ । २०० । इति असुन् । अत्र केचित् फ चेति पठन्ति इत्यतः फः ।)
शिश्नः । इत्य- मरः ॥ शुकपाते सति शेते पतति इति शेफः । शीङ् धातोर्नाम्नीति फस्प्रत्ययः । शेफसशेपसी शेफशेपौ शैवश्चेति पञ्च रूपाणि भवन्तीत्या चार्य्याः । इति भरतः ॥ (यथा, बृहत्सहि तायाम् । ६८ । ८ । “ऋजुवृत्तशेफसो लगुशिरालशिश्नाश्च धनवन्तः ॥”)