संस्कृत-शब्दकोशः

शेफालि शेफाली

शेफालिका

वाचस्पत्यम्

शेफालिका ||‍ स्त्री शेरते इति शेपाः अलयो यत्र वा कप् । (शिउलि) पुष्पवृक्षे अमरः “शेफालिका कटूष्णा च तिक्ता रूक्षा च वातहृत् । कफाङ्गसन्धिवातघ्नी शृतवा- तादिदोषहृत्” राजनि० ।


शब्दकल्पद्रुमः

शेफालिका || स्त्री (शेफालि + स्वार्थे कन् ।)
पुष्प- वृक्षविशेषः । शिउली इति भाषा ॥ (यथा, —
“शेफालिकां विदलितामवलोक्यं तन्वी पाणान् कथञ्चिदपि धारयितुं प्रभुः सा । आकर्ण्य सस्प्रति रुतं चरणायुधानां किँवा व्यवस्यति न वेद्मि तपस्विनी सा ॥” इत्यूद्भटः ॥)
तत्पर्य्यायः । सुवहा २ निर्गुण्डी ३ नीलिका ४ । इत्यमरः ॥ चत्वारि शेफालिकामात्रे । शिय- लीति ख्यातनीलपुष्पायां शेफालिकामिति केचित् । शेफालिकादिद्वयं शेफालिकामात्रे निर्गुण्ड्यादिद्वयं नीलपुष्पशेफालिकायामिति केचित् । इति तट्टीकायां भरतः ॥ शेफाली ५ मलिका ६ रजनीहासा ७ निशिपुष्पिका ८ । मा शुक्ला चेत् श्वेतसुरस ९ भूतवेशी १० । इति शब्दरत्नावली ॥ शुक्लाङ्गी ११ शीत- मञ्जरी १२ विजया १३ वातारिः १४ भूत- केशी १५ । अस्या मुणाः । कटुत्वम् । तिक्त- त्वम् । उष्णत्वम् । रूक्षत्वम् । वातकफाङ्ग- मन्धिवातगुदवातादिदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥



Correction: