संस्कृत-शब्दकोशः

शेल शेव

शेलु

वाचस्पत्यम्

शेलु ||‍ पु० शेल—उण् । बहुवारवृक्षे अमरः ।


शब्दकल्पद्रुमः

शेलुः || पुं, (शेलतीति । शेल गतौ + उः ।)
बहु- वारकवृक्षः । इत्यमरः ॥ (यथा, सुश्रुते । ४ । ३८ । “विदार्व्यैरावतीशेलुशाल्मलीधवलाङ्कुराः ॥” तत्फलमपि । यथा, मनुः । ५ । ६ । “शेलुं गव्यञ्च पेयूषं प्रयत्नेन विवर्ज्जयेत् ॥”)



Correction: