संस्कृत-शब्दकोशः

शेलु शेवधि

शेव

वाचस्पत्यम्

शेव ||‍ पु० शुक्रपाते सति शेते शी—अन् । पुंचिह्ने २ उन्नते ३ अहौ च उणादिकोषः ।


शब्दकल्पद्रुमः

शेवः || पुं, (शेते रेतःपातानन्तरमिति । शी + “इण् शीङ्भ्यां वन् ।” उणा० १ । १५२ । इति वन् । मेढ्रः । अहिः । उन्नते, त्रि । इत्युणादिकोषः ॥ (क्ली, सुखम् । इति निघण्टुः । ३ । ६ ॥ त्रि, सुखकरम् । यथा, ऋग्वेदे । १ । ५८ । ६ । “मित्रं न शेवं दिव्याय जन्मने ॥” “मित्रं न शेवं यथा सखा सुखकरो भवति तद्वत् सुखकरमित्यर्थः ।” इति तद्भाष्ये सायणः ॥)



Correction: