शब्दकल्पद्रुमः
शेषत्वं || क्ली (शेषस्य भावः । शेष + त्व ।)
उप- कारित्वम् पारार्थ्यम् । परोद्देश्यप्रवृत्तिकत्वम् । यथा, —
“शेषत्वमुपकारित्वं द्रष्यादावाह वादरिः । पारार्थ्यं शेषता तच्च सर्व्वेष्वस्तीति जैमिनिः ॥” इत्यधिकरणमालायां माधवाचार्य्यः ॥ शेषस्य भावः । इति व्याकरणम् ॥ शेषरात्रिः, स्त्री, (शेषा अवशिष्टा रात्रिः ।)
रात्रिशेषः । तत्पर्य्यायः । उच्चन्द्रः २ अपरात्रः ३ । इति शब्दरत्नावली ॥