वाचस्पत्यम्
शेषशयन || पु० शेषः अनन्तः शयनमस्य । नारायणे तच्छयन० प्रकारकालादि कालिकापु० २७ अ० उक्तं यथा “अनन्तस्तत्र गत्वा तु यत्र क्षीरोदसागरः । तत्र स्वयं स्त्रिया युक्तं सुषुप्सन्तं जनार्दनम् । तस्योपधानमकरो दनन्तो दक्षिणां फणाम् । उत्तरां पादयोश्चक्रे उपधानं महाबलः । तालवृन्तं तदा चक्रे स शेषः पश्चिमां फणाम् । स्वयन्तु वीजयामास शेषरूपी जनार्दनम् । शङ्खं चक्रं नन्दकादिमिषुधी द्वे महाबलः । ऐशान्या फणया चाथ स दध्रे गरुडं तदा । गदां पद्मञ्च शार्ङ्गं च तथैव विविधायुधम् । यानि चान्यानि तस्यासन्ना- ग्व्येय्या फणया दधौ । एवं कृत्वा स्वकं कायं शयनीयं तदा हरेः । भूतभव्यजगन्नाथं परापरगतिं हरिम् । दधार शिरसातन्तः स्वयमेव स्वकां तनुम् । एवं ब्रह्म- दिनस्यैव प्रसाणेन निशां हरिः । सन्ध्यां च समधिप्राप्य शेते नारायणोऽव्ययः” । मनुना “शर्वरी नस्य तावतो” इत्युक्तम् । “यदा स देवोजागर्त्ति तदेदं चेष्ठत जगत । यदा स्वपिति शान्तात्मा तदा सर्वं प्रणश्यति” इत्युक्तं तेन प्रलयकाले एव तस्य शयनम् ।