संस्कृत-शब्दकोशः

शेषा शैक्षिक

शैक्ष

वाचस्पत्यम्

शैक्ष ||‍ पु० शिक्षां तन्नामग्रन्थमघीते येत्ति वा अण् । १ शिक्षा- ग्रन्थाध्यायिनि २ तद्वेत्तरि च । वुन् । शिक्षकोऽप्यत्र ।


शब्दकल्पद्रुमः

शैक्षः || पुं, (शिज्ञामधीते इति । शिक्षा + अण् ।)
प्राथमकल्पिकः । इत्यमरः ॥ द्वे प्रथमारब्ध- वेदाध्ययने । शिक्षणं शिक्षा । सेमक्तात् सरो- रिति अः । शिक्षा प्रथमोपदेशः तत्साह- चर्य्यात् ग्रन्थोऽपि शिक्षा तामधीयते शैक्षाः । ढघे कादिति ष्णः प्रथमं शिक्षणीयं कल्पं शास्त्रं अधीयते प्राथमकल्पिकाः । इति भरतः ॥ (शिक्षा शीलमस्येति । “छत्रादिभ्यो णः ।” ४ । ६२ । इति णः । शिक्षाशीले, त्रि ॥)



Correction: