वाचस्पत्यम्
शैलधन्वन् || पु० शैलं गिरितुल्यं धनुरस्य अनङ्स० । महादेवे त्रिका० ।
शब्दकल्पद्रुमः
शैलधन्वा || [न्] (पुं, (शैलवत् दृढं धनुरस्य । धनुषो धन्वन्नादेशः ।) महादेवः । इति त्रिकाण्डशेषः ॥