वाचस्पत्यम्
शैलालिन् || पु० ब० व० शिलालिना मुनिना प्रोक्तं नटसूत्र- मधीयते णिनि । शैलूषेषु नटेषु अमरः ।
शब्दकल्पद्रुमः
शैलाली || [न्] पुं, (शिलालिना प्रोक्तं नटसूत्र- मधीते इति । शिलालि + “पाराशर्य्यशिला- लिभ्यां भिक्षुनटसूत्रयोः ।” ४ । ३ । ११० इति णिनिः ।)
नटः । इत्यमरः ॥