वाचस्पत्यम्
शैली || स्त्री० शीलमेव स्वार्थे ष्यञ् ङीपि यलोपः । १ चारित्रे २ सङ्केतभेदे च त्रिका० “आचार्य्याणामियं शैली यत्- सामान्येनाभिधाय विशेषेण विवृणोतीति” प्राञ्चः ।
शब्दकल्पद्रुमः
शैली || स्त्री (शीलस्येयमिति । शील + अण् । ङीष् ।)
सङ्केतः । यथा, —
“प्रज्ञप्तिः परिभाषा शैली सङ्केतसमयकाराश्च ।” इति त्रिकाण्डशेषः ॥ आचार्य्याणामियं शैली यत् सामान्येनाभिधाय विशेषेण विवृणोति । इति मुग्धबोधटीकायां दुर्गादासः ॥ (शिलाप्रतिमा । यथा, रामा- यणे । १ । ६४ । १२ । “यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् । दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ॥”)