वाचस्पत्यम्
शैलेन्द्र || पु० शैलः इन्द्र इव । हिमालये । ६ त० । शैलेशा- दयोऽप्यत्र ।
शब्दकल्पद्रुमः
शैलेन्द्रः || पुं, (शैलानामिन्द्रः ।)
हिमालयः । यथा, —
“ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् । सिंहस्योपरिशैलेन्द्रशृङ्गे महति काञ्चने ॥” इति देवीमाहात्म्यम् ॥