वाचस्पत्यम्
शैवल || न० शी—वलञ् । १ पद्मकाष्ठे २ शैबाले च पु० मेदि० । “वहतो बहुशैवलक्ष्मताम्” नैषधम्
शब्दकल्पद्रुमः
शैवलं || क्ली (शेते इति । शी + “शीङो धुग्लग्व- लञ् वालनः ।” उणा ०४ । ३८ । इति वलञ् ।)
पद्मकाष्ठम् । शैवाले, पुं, । इति मेदिनी ॥ (यथा कुमारे । ५ । ९ । “न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥” विन्ध्यसमीपदक्षिणभागवर्त्तिगिरिविशेषः । यथा, रामायणे । ७ । ८८ । १३ । “शै वलस्योत्तरे पार्श्वे ददर्श सुमहत् सरः ॥”)