वाचस्पत्यम्
शैवाल || न० शी—बालञ् । (शेओयाला) जलजाते पूदार्थभेदे अमरः । अस्य पृषो० दन्त्यादित्वमपि “सैवालकाङ्कु- रलतामधुना बिभत्ति” इति श्लेषात् ।
शब्दकल्पद्रुमः
शैवालं || क्ली (शी + बाहुलकात् वालञ् ।)
जलजद्रव्यविशेषः । शेयाला इति भाषा । (यथा, महाभारते । ४ । ६० । १७ । “प्रावर्त्तयन्नदीं घोरां शोनितोदां तरङ्गिणीम् । केशशैवालसंवाधां युगान्ते कालनिर्म्मिताम् ॥”)
तत्पर्य्यायः । जलनीली २ शैवलः ३ । इत्यमरः ॥ शेपालम् ४ शेवलम् ५ शीवलम् ६ शेपालः ७ जलनीलिका ८ । इति वाचस्पतिः ॥ जल- नीलः ९ । इति मुकुटादयः । इति भरतः ॥ सैवालम् १० शेबालम् ११ वारिचामरः १२ शैवलम् १३ सलिलकुन्तलम् १४ हटपर्णी १५ अम्बुतालम् १६ । इति शब्दरत्नावली ॥ अरकः १७ जलकेशः १८ कावारम् १९ । इति हारावली ॥ जलजम् २० । अस्य गुणाः । शीतलत्वम् । स्निग्धत्वम् । सन्तापव्रणनाशि- त्वञ्च । इति राजनिर्घण्टः ॥