संस्कृत-शब्दकोशः

शैवाल शैशव

शैव्य

वाचस्पत्यम्

शैव्य ||‍ पु० शिवेर्गात्रापव्यम् ञ्य । १ शिविगोत्रजे राजभेदे “शैव्यश्च नरपुङ्गवः” इति गीता । शिवितोऽधिगतः ञ्य । २ घोटकमात्रे ३ श्रीकृष्णस्य घोटके च त्रिका० ।


शब्दकल्पद्रुमः

शैव्यः || पुं, श्रीकृष्णस्य घोटकविशेषः । यथा, —
“तुरगाः शैव्यसुग्रीवमेघपुष्पबलाहकाः ।” इति त्रिकाण्डशेषः ॥ (यथा च महाभारते । १ । २२१ । ३ । “रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि । शैव्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ॥”)
पाण्डवसेनापतिविशेषः । यथा, — धृष्टकेतुश्चेकितानः काशीराजश्च वीर्य्यवान् । पुरुजित् कुन्तिभोजश्च शैव्यश्च नरपुङ्गवः ॥” इति श्नीभगवद्गीतायाम् । १ । ५ । (स्त्री, प्रतीपस्य राज्ञः पत्नी । इति महा- भारतम् । १ । ९५ । ४४ ॥ सगरस्य राज्ञः पत्नी । सा तु असमञ्जसो जननी । यथा, महाभारते । ३ । १०७ । ३९ । “असमञ्जा इति ख्यातः सगरस्य सुतोऽह्यभूत् । यं शैव्या जनयामास पौराणां स हि दारकान् । गलेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्ब्बलान् ॥” शिवसम्बन्धिनि, त्रि ॥



Correction: