वाचस्पत्यम्
शैशव || न० शिशोर्भावः अण् । शिशुकाले अवस्थाभेदे अमरः
शब्दकल्पद्रुमः
शैशवं || क्ली शिशोर्भावः । (शिशु + “इगन्ताच्च लघुपूर्व्वात् ।” ५ । १ । १३१ । इति अण ।)
बाल्यम् । इत्यमरः ॥ यथा, “शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्द्धके मुनीवृत्तीनां योगेनान्ते तनुत्यजाम् ॥” इति रघुवंशे १ सर्गः ॥