वाचस्पत्यम्
शैशिर || पुंस्त्री० शिशिर प्रियत्वेनास्त्यस्य अण् । १ श्यामच० टके राजनि० स्त्रियां ङीष् । शिशिरे भवः ऋत्वण् । २ शिशिरजाते त्रि० । स्वार्थे अण् । ३ शिशिरे न० । “त- पस्तपस्यौ शैशिरावृतुः” श्रुतिः ।
शब्दकल्पद्रुमः
शैशिरः || पुं, (शिशिरे ऋतौ भवः । शिशिर + अण् । श्यामचटकः । इति राजनिर्घण्टः ॥ शिशिरसम्बनि, त्रि, । यथा । श्रुतिः । तप- स्तपस्यौ शैशिरावृतुः । इति तिथ्यादितत्त्वम् ॥