वाचस्पत्यम्
शोचिष्केश || पु० शोचिः केशैव यस्य । १ वह्नौ २ चित्रकवृक्षे च अमरः ।
शब्दकल्पद्रुमः
शोचिष्केशः || पुं, (शोचींषि केशा इव यस्य । नियतं समासेऽनुत्तरपदस्थस्येति षत्वम् ।)
अग्निः । चित्रकवृक्षः । इत्यमरः ॥ (क्वचित् वाच्यलिङ्गो ऽपि । तथा, ऋग्वेदे । १ । ४५ । ६ । “शोचिष्केशं पुरुप्रियाग्ने हव्याय वोह्लवे ।” “शोचिष्केशं दीप्तिरूपकेशोपेतम् ।” इति तद्भाष्ये सायणः ॥)
शोच्यकः, त्रि, अवरः । क्षुद्रः । इति शब्दमाला ॥