वाचस्पत्यम्
शोचिस् || न० शुच—इसि । १ प्रभायां २ रोचिषि च अमरः ।
शब्दकल्पद्रुमः
शोचिः || [स्] क्ली, (शुच्यत्यनेनेति । शुच + “अर्चि- शुचिहुसृपीति ।” उणा० २ । १०९ । इति इसिः ।)
प्रभा । इत्यमरः ॥ (यथा, भागवते । ३ । १५ । २६ । “तद्विश्वगुर्व्वधिकृतं भुवनैकवन्द्यं दिव्यं विचित्रविबुधाग्र्यविमानशोचिः ॥”)