संस्कृत-शब्दकोशः

शोणाक शोणितचन्दन

शोणित

वाचस्पत्यम्

शोणित ||‍ न० शोण—इतच् । १ रुधिरे तद्वद्वर्णे २ रक्तवर्णे पु० ३ तद्वति त्रि० अमरः । ४ कुङ्कुमे न० राजनि० ।


शब्दकल्पद्रुमः

शोणितं || क्ली (शोण वर्णे + क्तः ।)
शोण + जातार्थे इतच् वा ।)
रक्तम् । इत्यमरः ॥ (यथा, मनुः । ११ । २०८ । “शोणितं यावतः पांशून् संगृह्णाति महीतले । तावन्त्यब्दसहस्राणि तत्कर्त्ता नरके वसेत् ॥”)
तस्योत्पत्तिर्गर्भस्थस्य पञ्चमे मासि भवति । इति सुखबोधः ॥ कुङ्कुमम् । इति राजनिर्घण्टः ॥



Correction: