संस्कृत-शब्दकोशः

शोणोपल शोथक

शोथ

वाचस्पत्यम्

शोथ ||‍ पु० शु—थन् । हस्तपादादेः स्फीतताकारके रोगभेदे तस्य लक्षणादिकं भावप्र० उक्तं यथा “अथ शोथाधिकारः । तत्र शोथस्य विप्रकृष्टं निदान- माह “शुद्ध्यामयाभक्तकृशाबलानां क्षाराम्लतीक्ष्णीष्ण गुरुपसेवनात् । दध्याममृच्छाकविरोधिपिष्टगरोपसूष्टान्न- निषेवणाच्च । अर्शांस्यचेष्टा वपुषोह्यशुद्धिर्मर्माभिधाती विषमा प्रसूतिः । मिथ्योपचारः प्रतिकर्मणाञ्च निजस्य हेतुः श्वयथोः प्रदिष्टः” । शुद्धिर्वमनविकारेकादिः । आमयाः पाण्डुरोगादयः । अभक्तम् अगोजनम् । आमः अपक्वो भुक्तस्य रसः । पिष्टगरोपसृष्टान्नम् पिंष्टो यो गरः संयोगजं विषं तेन संसृष्टमन्नम् । वपुषोह्यशुद्धिः शोधनार्हस्य वपुषोऽशोधनम् । मर्मोपधातः दीपकृत एव ज्ञेयः । वाह्यहेतुकृतस्तु मर्मोपघात आगन्तुजशोथ हेतुरेव । विषमा प्रसूतिः आमगर्भपतनादिका । प्रति- कर्मणां वमनादिपञ्चकर्मणाम् निय्योपचारः अस- म्यक्करणम् । श्वयथोः शोथस्य निजस्य आत्मीषस्य सन्नि- कृष्टस्य हेतुर्घातात्मकस्योक्तः । अथ शोथव्य संप्राप्तिपूर्वकं सामान्यं लक्षणमाह “रक्तपित्तकफान् वायुर्दुष्टो दुष्टान् बहिःसिराः । नीत्वा रुद्धमतिस्तैर्हि कुर्य्यात्त्वग्मांस संश्रयम् । उत्सेधं संहतं शोथं तमाहुर्निचयादतः । सगौरवं स्यादनवस्थितत्वं सोत्सेधमुष्माप्य सिरातनु- त्वम् । सलोमहर्षञ्च विवर्णता च सामान्यलिङ्गं श्वयथोः प्रदिष्टम्” । उत्सेधं उन्नतत्वम् । किंविशिष्टमुत्मेध- अतः पूर्वोक्तात् निचयात् रक्तपित्तकफवातानां समु- दायात् संहतम् घनम् । तमुत्सेधं शोथमाहुरित्य- वयः । तस्य शोथस्य किं स्यादित्याकाङ्क्ष याचाह । अनवस्थितत्वं स्यात् अनिषता स्थितिः स्वादित्यर्शः चिकित्साव्यतिरेकेणापि निवृत्तेः । तच्चानवस्थिवत्यं सगौरवं स्याद्गौरवमप्यनवस्थितं स्यात् । अथ च सोत्मेघ स्यात् । उन्नतत्वमप्यनवस्थितं स्वादिव्यर्थः । वातिकं शोयमाह “चरस्तनुत्वक्परुषोऽरुणोऽसिनः प्रलुप्तिडर्षा- र्त्तियुतो निमित्ततः । प्रशाम्यति प्रोन्नमति प्रपीडिगो दिवा वली स्यात्श्वयथुः समोरणात्” । चरः लजारी । प्रनुप्तिः स्पर्शाज्ञता! हर्पोऽत्र (फिनि फिनी) रोमाञ्चो वा । आर्त्तिः पीडा एतद्युतः दिवा बली विकृतिविषम समप्रायारब्वत्वाद् । चतएबोक्तम् “स्लेहोष्णवमनाद्यैर्यः प्रशाष्येत स वातिकः । यसाप्यरुपवणः स्याम्नापो नक्तं प्रशाम्यति” । अथ पैधिकमाह “स्वदुः सगन्धो- ऽसितपीतरागवान् भ्रमज्वरस्वेदटषामदान्वितः । य उष्यते स्पर्शसहोऽक्षिरागमान् स वित्तशोथो भृण्टा- हपाकतान्” । उष्यते सन्तप्यते । भृशदाहभाकवान् भृशं पाकस्तद्युक्तः । श्लैष्मिकमाह “पुरुः स्थिरः पाण्डुर- रोचकान्वितः प्रसेकनिद्रावमिवह्निमान्द्यकृस् । सकृच्छ्र- जन्मप्रशमो निपीडितो नचान्नमिड्रात्रिवली कका- त्मकः” । द्वन्द्वजमाह “निदानाकृतिसंसर्गात् ज्ञेयः शोथो द्विदोषजः” । सान्निपातिकमाह “सर्वाकृतिः सन्निपाता- च्छाथोव्यामिश्रलक्षणः” । व्यामिश्रलक्षण इत्युक्तेः सर्वा- कृतिरिति उक्तवातजादिशोथसकलसक्षणनियमार्थम् । अथाभिधातजमाह “अभिघातेन शस्त्रादिच्छेदभेदक्षता- दिमिः । हिषानिलोदध्यनिलैर्मल्लातकपिकच्छजैः । रसै शूकैश्च संस्पर्शाच्छयथुः स्याद्विसर्पवान् । भृशोष्म लोहिताभास प्रायशः पित्तलक्षणः” । छेदः स्नड्गा- दिना भेदः पाषाणादिना । क्षतं शरादिबा नाडीव्र- णादि च । आदिशब्देन लगुडप्रहारादि गृह्यते । भल्लातजैः रसैः कपिकच्छुजैः शूकैः विसर्पवान् प्रसरणशालः पित्तलक्षणः पैत्तिकशोथलक्षणः । अथ विषजमाह “विषजः सविषप्राणिपरिसर्पणमूत्रणात् । दंष्ट्रादन्त नखाधातादविषप्राणिनामपि । विण्मूत्रशुक्रोपहत- मलवद्वस्तुसङ्करात् । विषवृक्षानिलस्पर्शाद्गरयोगावधून- नात् । मृदुश्चलोऽवलम्बी च शीघ्रो बहुरुजाकरः” । परिसर्पणात् शरीरोपरि सञ्चरणात् । दंष्ट्रा द्विगुणीकृता दन्ताबलिः । (चोह) इति लोके । दन्वाः आस्ये भबाः । अविषप्राणिनामपीत्यनेन दंष्ट्रादन्तबखानां स्वभावादेव सविषत्वं किन्तु सर्षादिविषं मारकं भवति अविषप्रा- णिनां दष्ट्रादिविषं शोथव्यथादिकरं भवतीति वि- शेषः । विण्मुत्रेत्यादि । विडाद्युपहतं मलिनञ्च य- द्वस्तु तथा सङ्करः सन्मार्जनीभिः क्षिप्तो धूल्यादिः तेषां सम्पर्कात् । गरयोगावधूननात् गरः संयोगजं विषं तस्य योगा यस्य तेन वस्तुनाऽवधूननात् । अव- लम्बी लम्बमानः । अयमप्यागन्तुजस्तथापि सामान्या गन्तुजशोथचिकित्सातोऽस्य विशिष्टचिकित्साभिधा- नाय पृथक् पठितः । यत्र स्थिता दोषा यत्र शोथं कुर्वन्ति तदाह “दोषाः श्वयथुमूर्द्ध्वं हि कुर्वन्त्यामाशये स्थिताः । पित्ताशयस्था मध्ये तु वर्चःस्थानगतास्त्वधः । कृत्स्नं देहृमनुघ्राप्य कुर्युः सर्वसरं तथा । ऊर्द्धम् उरःप्रभृत्यूर्द्धम् । मध्ये उरःपक्काशयमध्ये । अधः पक्काशयादधः । उपद्रवानाह “छर्दिश्वासोऽरुचिस्तृष्णा ज्यरोऽतीसार एव च । सम्पाक आमटौर्बल्यं शोथ एते उवद्रवाः” । तत्र शोथामाध्यत्वमाह “श्वासः पिपासा छदिश्च दौर्बल्य ज्वर एव च । यस्य चान्ने रुचिर्ज्ञास्ति शाथिनन्तु विवर्जयेत्” । स्वार्थे क । तत्रार्थे शब्दच० ।


शब्दकल्पद्रुमः

शोथः || पुं, (शवतीति । शु गतौ + बाहुलकात् थन् । इत्युणादिवृत्तौ उज्ज्वलः । २ । ४ ।)
रोगविशेषः । तत्पर्य्यायः । शोफः २ श्वयथुः ३ । इत्यमरः ॥ शोथकः ४ । इति शब्दरत्नावली ॥ अथ शोथाधिकारः । तत्र शोथस्य विप्रकृष्टं निदानमाह । “शुद्ध्यामयाभक्तकृशाबलानां क्षाराम्लतीक्ष्णोष्णगुरूपसेवा । दध्याममृच्छाकविरोधिपिष्ट- गरोपसृष्टान्ननिषेवणञ्च ॥ अर्शांस्यचेष्टा वपुषो ह्यशुद्धि- र्मर्म्मोपघातो विषमा प्रसूतिः । मिथ्योपचारः प्रतिकर्म्मणाञ्च निजस्य हेतुः श्वयथोः प्रदिष्टा ॥” शुद्धिर्वमनविरेकादि । आमयाः पाण्डुरोगा- दयः । अभक्तं अभोजनम् । आमः अपक्वो भुक्तस्य रसः । पिष्टगरोपसृष्टान्नं पिष्टो यो गरः संयोगजं विषं तेन उपसृष्टमन्नम् । वपुषो ह्यशुद्धिः शोधनार्हस्य वपुषोऽशोधनम् । मर्मोप- घातः दोषकृत एव ज्ञेयः । बाह्यहेतुकृतस्तु मर्मोपघातः आगन्तुजशोथहेतुरेव । विषमा प्रसूतिः आमगर्भपतनादिना । प्रतिकर्म्मणां वमनादीनां पञ्चकर्म्मणाम् । मिथ्योपचारः असम्यक्करणम् । श्वयथोः शोथस्य । निजस्य आत्मीयस्य । सन्निकृष्टस्य हेतोर्वातादेः । हेतुः रूक्षोष्णमधुरादि ॥ * ॥
सन्निकृष्टनिदानमाह । “दोषैः पुथक् द्वयैः सर्व्वैरभिघाताद्विषादपि । सर्व्वो हेतुविशेषैस्तु रूपभेदो नवात्मकः ॥” * ॥
संप्राप्तिपूर्व्वकं सामान्यं लक्षणमाह । “रक्तपित्तकफान् वायुर्दुष्टो दुष्टान् वहिःशिराः नीत्वा रुद्धगतिस्तैर्हि कुर्य्यात् त्वङ्मांससंश्रयम् उत्सेधं संहतं शोथं तमाहुर्निचयादतः ॥ सगौरवं स्यादनवस्थितत्वं सोत्सेधमुष्माथ शिराततत्वम् । सलोमहर्षञ्च विवर्णता च सामान्यलिङ्गं श्वयथोः प्रदिष्टम् ॥” उत्सेधः उन्नतत्वं किं विशिष्टमुत्सेधं अतः पूर्व्वोक्तान्निचयात् रक्तपित्तकफवातानां समु- दायात् । संहतं घनम् । तमुत्सेधं शोथमाहु- रित्यन्वयः ॥ * ॥
तस्य शोथस्य किं स्यादित्या- काङ्क्षयामाह । अनवस्थितत्वं स्यादनियता स्थितिः स्यादित्यर्थः । चिकित्साव्यतिरेकेणापि निवृत्तेः । तच्चानवस्थितत्वं सगौरवं स्यात् । गौरवमप्यनवस्थितं स्यात् । अथ च सोत्सेधं स्यात् । उन्नतत्वमप्यनवस्थितं स्यादित्यर्थः ॥ * ॥
वातिकं शोथमाह । “चरस्तनुस्त्वक्परुषोऽरुणोऽसितः प्रसुप्तिहर्षार्त्तियुतो निमित्ततः । प्रशाम्यति प्रोन्नतमेति पीडितो दिवा बली स्यात् श्वयथुः समीरणात् ॥” चरः सञ्चारी । प्रसुप्तिः स्पर्शाज्ञता । हर्षोऽत्र झिनिझिनी रोमाञ्चो वा । अर्त्तिः पीडा । एतद्युतः । दिवावलीविकृतिविषमसमवाया- रब्धात् । अतएवोक्तं चरकेण । “स्नेहोष्ममर्दनाद्यैर्यः प्रशाम्येत् स च वातिकः । यश्चाप्यरुणवर्णः स्यात् शोथो नक्तं प्रशा- म्यति ॥” * ॥
पैत्तिकमाह । “मृदुः सुगन्धोऽसितपीतरागवान् भ्रमज्वरस्वेदतृषामदान्वितः । य उष्यते स्पर्शरुगक्षिरागकृत् स पित्तशोथो भृशदाहपाकवान् ॥” उष्यते सन्तप्यते । भृशदाहपाकवान् भृश- दाहो यः पाकस्तद्युक्तः ॥ * ॥
श्लैष्मिकमाह । “गुरुः स्थिरः पाण्डररोचकान्वितः प्रसेकनिद्रा वमिवह्निमान्द्यकृत् । स कृच्छ्रजन्मप्रशमो निपीडितो न चोन्नमेद्रात्रिवलीकफात्मकः ॥” * ॥
द्वन्द्वजमाह । “निदानाकृतिसंसर्गात् ज्ञेयः शोथो द्विदोषजः ॥ सान्निपातिकमाह । “सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रलक्षणः व्यामिश्रलक्षण इत्युक्ते सर्व्वाकृतिरिति उक्त- वातजादिशोथसकललक्षणनियमार्थम् ॥ * ॥
अभिघातजमाह । “अभिघातेन शस्त्रादिच्छेदभेदक्षतादिभिः । हिमानिलोदध्यनिलैर्भल्लातकपिकच्छुजैः ॥ रसैः शूकैश्च संस्पर्शात् श्वयथुः स्याद्विसर्पवान् । भृशोष्मा लोहिताभासः प्रायशः पित्तलक्षणः ॥” छेदः खड्गादिना भेदः पाषाणादिना क्षतं शरादिना नाडीब्रणादि च । आदिशब्देन लगुडप्रहारादि गृह्यते । भल्लातजैः रसैः । कपि- कच्छुजैः शूकैः । विसर्पवान् प्रसरणशीलः । पित्तलक्षणः पैत्तिकशोथलक्षणणः ॥ * ॥
विषज- माह । “विषजः सविषप्राणिपरिसर्पणमूत्रणात् । दंष्ट्रादन्तनखाघातादविषप्राणिनामपि ॥ विण्मूत्रशुक्रोपहतमलवद्वस्त्रसंकटात् । विषवृक्षानिलस्पर्शात् गरयोगावचूर्णनात् ॥ मृदुश्चलोऽवलम्बी च शीघ्रो बहुरुजाकरः ।” परिसर्पणं शरीरोपरि सञ्चरणम् । दंष्ट्राद्विगुणी कृता दन्तावली । चौ ह इति लोके । दन्ता अग्रे भवाः । अविषप्राणिनामपीत्यनेन दंष्ट्रा दन्तनखानां स्वभावादेव सविषत्वमुक्तम् । किन्तु सर्पादिविषं मारकं भवति । अविषप्राणिनां दंष्ट्रादिविषं शोथव्यथादिकरं भवतीति विशेषः विण्मूत्रेत्यादिविडाद्युपहतं मलिनञ्च यद्वस्त्रम् तथा सङ्करः संमार्जनीनिःक्षिप्तो धूल्यादिःतेषां सम्पर्कात् । गरयोगावचूर्णनात् गरः संजोगजं विषं तस्य योगो यस्य तेन वस्तुनावधूननात् । अवलम्बी लम्बमानः । अयमप्यागन्तुजस्तथापि सामान्यागन्तुजशोथचिकित्सातोऽस्य विशिष्ट- चिकित्साभिधानात् पृथक पठितः ॥ * ॥
यत्र स्थिता दोषा यत्र शोथं कुर्व्वन्ति तदाह । “दोषाः श्वयथुमूर्द्धंहि कुर्वन्त्यामाशये स्थिताः । पित्ताशयस्था मध्ये तु वर्च्चस्थानगतास्त्वधः ॥ कृत्स्रं देहमनुप्राप्ताः कुर्य्युः सर्व्वसरं तथा ।” ऊर्द्धं उरःप्रभृत्यूर्द्धम् । मध्ये पक्काशयमध्ये । अघः पक्वाशयादधः ॥ * ॥
उपद्रवानाह । “श्वासं पिपासा छर्द्दिश्च दौर्बल्यं ज्वर एव च । यस्य चान्ने रुचिर्नास्ति शोथिनं तं विवर्जयेत् ॥” कष्टसाध्यत्वादिकमाह । “यो मध्यदेशे श्वयथुः स कष्टः सर्व्वगश्च यः । अर्द्धाङ्गेऽरिष्टभूतश्च यश्चोर्द्धं परिसर्पति ॥” मध्यदेशे उरःपक्वाशयमध्ये । सर्व्वगः सकल- शरीरभवः । सर्व्वज इति पाठे सान्निपातिकः । अर्द्धाङ्गे अर्द्धनारीश्वराकारे । यस्वोर्द्ध्वं परिसर्प- तीति पुरुषविषयम् । तथा च । “ऊर्द्धगामी नरं पद्भ्यामधोगामी मुखात् स्त्रियम् । उभयं वस्तिसंजातः शोथो हन्ति न संशयः ॥” ऊर्द्धगामी मुखगामी । तथा च तन्त्रान्तरे । “पादप्रवृत्तः श्वयथुर्नृणां यः प्राप्नु यान्मुखम् ॥” इति ॥ स न सिध्यतीति शेषः । अधोगामी पादगामी । तथा च तन्त्रान्तते । “स्त्रीणां वक्त्रात् पदं याति वस्तिजश्च न सिध्यति ।” इति ॥ उभयं नरं नारीञ्च । अपरञ्च । “अनन्योपद्रवकृतः शोथः पादसमुत्थितः । पुरुषं हन्ति वा नारोंमुखजो वस्तिजो द्वयम् ॥” अयमर्थः । पादसमुत्थितः पादाभ्यामुत्थितो मुखगामीति यावत् शोथः पुरुषं हन्ति स किं विशिष्टः अनन्योपद्रवकृतः । शोफादन्ये व्याधयो ऽतीसारग्रहण्यर्शःप्रभृतयः तेषामुपद्रवैः कृतः । तदुपद्रवेण जात इत्यर्थः । न अन्योपद्रवकृतः । अनन्योपद्रवकृतः । अर्थात् स्वहेतुभिरेव जातः । शोथव्याधिरेव तु पुनर्मुखजः मुखाज्जातः पद- गामीति यावत् नारीं हन्ति । सोऽप्यनन्योप- द्रवकृत एव । वस्तिजः द्वयं पुरुषं नारीञ्च हन्ति सोऽप्यनन्योपद्रवकृत एव ॥ * ॥
अथ शोथस्य चिकित्सा । “शुण्ठीपुनर्नवैरण्डपञ्चमूलीशृतं जलम् । वातिके श्वयथौ शस्तं पानाहारपरिग्रहैः ॥ * ॥
पटोलत्रिफलारिष्टदार्व्वीक्वाथः सगुग्गुलुः । हन्ति पित्तकृतं शोथंतृष्णाज्वरसमन्वितम् ॥ * ॥
स्नु क्क्षीरभाविताः कृष्णा पथ्या मूत्रेण वा युताः योजिताः शमयन्त्याशु शोथं श्लेष्मसमुत्थितम् ॥ मिश्रे मिश्रक्रियां कुर्य्यात् सर्व्वजे सर्व्वमेव हि । विल्वपत्ररसं पूतं शोषणं त्रिभवे पिबेत् ॥ * ॥
शोथे त्वागन्तुजे कुर्य्यात् सेकलेपादिशीतलम् । भल्लातक्या हरेच्छोथं सतिला कृष्णमृत्तिका । महिष्या नवनीतञ्च लेपाद्दग्धतिलान्वितम् ॥” अत्र दुग्धं महिष्या एव । यत आह । “महिषीक्षीरसंपिष्टैर्नवनीतसमन्वितैः । तिलैर्लिप्तः समं याति शोथो भल्लातकोत्थितः ॥ यष्टिदुग्धतिलैर्लेपो नवनीतेन संयुतः । शोथमारुस्करं हन्ति चूर्णैः शालदलस्य च ॥” विषजशोथचिकित्सा तु विषचिकित्सायांद्रष्टव्या त्रथ सामान्यचिकित्सा । “पथ्या निशा भार्ग्यमृताग्निदार्व्वी- पुनर्नवा दारु महौषधञ्च । क्वाथं प्रपीयोदरपाणिपाद- मुखागतं हन्त्यचिरेण शोथम् ॥” इति पथ्यादिक्वाथः ॥ * ॥
फलत्रिकोद्भवं क्वाथं गोमूत्रेणैव साधयेत् । वातश्लेष्मभवं शोथं हन्याद्वृषणसम्भवम् ॥ * ॥
वृश्चीवदेवद्रुमनागरेण दन्ती त्रिवृत्र्यूषणचूर्णकैर्व्वा । दुग्धं सुसिद्धं विधिना निपीतं गीतं परं शोथहरं भिषग्भिः ॥” वृश्चीवः वर्षाभूः ॥ * ॥
“केशस्तथार्कवर्षाभूर्निम्बक्वाथेन शोथहृत् । गोमूत्रेणापि कुर्व्वीत सुखोष्णे नावसेचनम् ॥ * ॥
पुनर्नवा दारु शुण्ठी शिग्रुः सिद्धार्थकस्तथा । अम्लपिष्टः सुखोष्णोऽयं प्रलेपः सर्व्वशोथहृत् ॥ गुडार्द्रकं वा गुडनागरं वा गुडाभयां वा गुडपिप्पलीं वा कर्षाभिवृद्ध्या त्रिपलप्रमाणं खादेन्नरः पक्षमथापि मासम् ॥ शोथप्रतिश्यायगलास्यरोगान् सश्वासकासारुचिपीनसादीन् जीर्णज्वरार्शोग्रहणीविकारान् हन्यात् तथान्यान् कफवातरोगान् ॥ * ॥
विश्वं गुडेन तुल्यं वृश्चीवरसानुपानमध्यस्तम् । विनिहन्ति सर्व्वशोथं घनवृन्दंचण्डवायुरिव ॥ * ॥
कणानागरजं चूर्णं सगुडं शोथनाशनम् । आमाजीर्णप्रशमनं शूलघ्नं वस्तिशोधनम् ॥ * ॥
गुडात् पलत्रयं ग्राह्यं शृङ्गबेरं पलत्रयम् । शङ्गबेरसमा कृष्णा लोहविट्तिलयोः पलम् ॥ चूर्णमेतत् समुद्दिष्टं सर्व्वश्वयथुनाशनम् ॥” इति गुडादिवटिका । “मानकक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत् एकजं द्वन्द्वजं शोथं त्रिदोषञ्च व्यपोहति ॥” इति मानकघृतम ॥ “शुष्कमूलवर्षाभूदारुरास्नामहौषधैः । पक्वमभ्यञ्जनात्तैलं सशूलं श्वयथुं हरेत् ॥” शुष्कमूलकतैलम् । इति शोथाधिकारः । इति भावप्रकाशः ॥



Correction: