संस्कृत-शब्दकोशः

शोथहृत् शोधनी

शोधन

वाचस्पत्यम्

शोधन ||‍ न० शुध—णिच्—ल्युट् । १ शौचे २ विष्ठायां शब्दच० । ३ कासीसे राजनि० । ४ मलादेर्विरेचने ५ दोषविवारणे ६ ऋणादिनिर्यातये च । शुध—णिच्—ल्यु । ७ निन्यूके पु० राजनि० । ८ शुद्धिकारके त्रि० । शुध्यत्यनया करणे ल्युट् ङीप् । ९ सम्मार्जन्याम् स्त्री अमरः । १० ताम्बूल- वल्ल्यां ११ नील्याञ्च स्त्री ङीप् । १२ विहिताविहितमा- सादिविचारणे न० “सूर्य्यग्रहणकालेन समानो नास्ति कश्चन । तत्र यद्यत् कृतं सर्वमबन्तफलदम्भवेत् । न मासतिथिवारादिशोधनं सूर्य्यपर्वणि” मल० त० । दोष- निवारणञ्च धातुविशेषस्य द्रव्यान्तरेण संयोजनम् “पत्त- लोकृतपत्त्राणि हेम्नो वह्नौ प्रतापयेत् । निषिञ्चेत तप्ततप्तानि र्तले तक्रे च काञ्जिके । गोभूत्रे च कुन त्थानां कषाये तु त्रिधा त्रिधा । एवं हेम्न परेषःञ्च धातूनां शोधनं भवेत्” इत्यादिपकारेण धात्वादीनां दोषनिवारणम् । १३ व्रणादेः क्लेदपूयाद्यपसारणे च “व्रणस्य त्वविथुद्धस्य क्वाथः शुद्धिकरः स्मृतः । पटोल- निम्बपत्त्रस्य सर्वत्रैव प्रयुज्यते । वातिके दशमूलानां क्षीरिणां पैत्तिके व्रणे । आरग्बधादेः कफजे कषयाः शोधनं मतम्” । १४ पाण्डुलेख्यादेर्दोषनिवारणे भाषा- शब्दे दृश्यम् । १५ भाज्याङ्गात् भाजकस्य हरणे ।


शब्दकल्पद्रुमः

शोधनं || क्ली (शोधयतीति । शुध + णिच् + ल्युः )
कङ्कुष्ठम् । इति राजनिर्घण्टः ॥ (शुध + भावे ल्युट् ।)
शौचम् । इति शुधधात्वर्थदर्शनात् ॥ (प्रायश्चित्तम् । यथा, मनुः । ११ । १६१ । “अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता । अज्ञानभुक्तन्तूत्तार्य्यं शोध्यं वाप्याशु शोधनैः ॥”)
विष्ठा । इति शब्दचन्द्रिका ॥ कासीसम् । इति राजनिर्घण्टः ॥ विहिताविहितमासादिविचा- रणम् । यथा, —
“सूर्य्यग्रहणकालेन समानो नास्ति कश्चन । तत्र यद्यत् कृतं सर्व्वमनन्तफलदं भवेत् । न मासतिथिवारादिशोधनं सूर्य्यपर्व्वणि ॥” इति मलमासतत्त्वम् ॥ * ॥
धातुनिर्द्दोषीकरणम् । यथा, —
“पत्तलीकृतपत्राणि हेम्नो वह्रौ प्रतापयेत् । निषिञ्चेत्तप्ततप्तानि तैलचक्रे च काञ्जिके ॥ गोमूत्रे च कुलत्थानां कषाये तु त्रिधा त्रिधा । एवं हेम्नः परेषाञ्च धातूनां शोधनं भवेत् ॥” * ॥
व्रणादिपरिष्करणम् । यथा, —
“व्रणस्य त्वविशुद्धस्य क्वाथः शुद्धिकरः परः । पटोलनिम्बपत्रस्य सर्व्वत्रैव प्रयुज्यते ॥ वातिके दशमूलानां क्षीरिणां पैत्तिके व्रणे । आरग्वधादेः कफजे कषायः शोधनं हितम् ॥” अपि च । “अष्टमेनांशशेषेण चतुर्थेनार्द्धकेन वा । अथवा क्वाथनेनैव सिद्धमुष्णोदकं वदेत् । श्लेस्मामवातमेदोघ्नं वस्तिशोधनदीपनम् ॥” इति च भावप्रकाशः ॥ * ॥
लिखितपत्रादेः प्रमाणीकरणम् । यथा । लेख्य- शोधनमाह कात्यायनः । “स्वहस्तलेख्यसन्देहे जीवतो वा मृतस्य च । तत् स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः ॥” * विरुद्धलिखितस्य शुद्धीकरणम् । थथा । तच्छो- धनमाह बृहस्पतिः । “न्यूनाधिकं पूर्व्वपक्षं तावद्वादी विशोधयेत् । न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसन्निधौ ॥” कात्यायनः । “शोधयेत् पूर्व्वपक्षन्तु यावन्नोत्तरदर्शनम् । उत्तरेणावरुद्धस्य निवृत्तं शोधनं भवेत् ॥” इति व्यवहारतत्त्वम् ॥ * ॥
अङ्खस्य हरणम् । यथा, —
“भाज्याद्धरः शुध्यति यद्गुणः स्या- दन्त्यात् फलं तत् खलु भागहारे । समेन केनाप्यपवर्त्त्य हार- भाज्यौ भजेद्वा सति सम्भवे तु ॥ इति लीलावती ॥ अन्यत् शुद्धिशब्दे द्रष्टव्यम् ॥


शब्दकल्पद्रुमः

शोधनः || त्रि (शोधयतीति । शुध + णिच् + ल्युः ।)
शुद्धिकारकः । यथा, —
“महासान्तपनः शुद्ध्यै तप्तकृच्छ्रस्तु पावनः । जलोपवासकृच्छ्रस्तु ब्रह्मकूर्च्चस्तु शोधनः ॥” इति प्रायश्चित्ततत्त्वधृतविश्वामित्रवचनम् ॥ यथा च । “तैलसैन्धवयष्ट्याह्वनिम्बपत्रनिशायुगैः । त्रिवृद्घनयुतैः पिष्टैः प्रलेपो ब्रणशोधनः ॥ इति भावप्रकाशः ॥


शब्दकल्पद्रुमः

शोधनः || पुं, (शोधयतीति । शुध + णिच् + ल्युः ।)
निम्बूकः । इति राजनिर्घण्टः ॥



Correction: