संस्कृत-शब्दकोशः

शोफहृत् शोभनक

शोभन

वाचस्पत्यम्

शोभन ||‍ न० शोभते शुभ—ल्य । १ पद्मे शब्दमा० । विष्कम्भा- दिषु २ पञ्चमे योगे पु० ज्यो० त० । ३ शोभायुक्ते त्रि० । ४ सुन्दरे त्रि० ५ ग्रहे पु० धरणि ।


शब्दकल्पद्रुमः

शोभनं || क्ली (शोभते इति । शुभ + ल्युः ।)
पद्मम् । इति शब्दचन्द्रिका ॥ (शुभ + भावे ल्युट् । शुभम् । यथा, भागवते । ५ । १९ । २१ । “अहो वतैषां किमकारि शोभनं प्रसन्न एषां स्विदुत स्वयं हरिः ॥”)


शब्दकल्पद्रुमः

शोभनः || त्रि (शोभते इति । शुभ + ल्युः ।)
सुन्दरः । इति मेदिनी ॥ अस्य पर्य्यायो मनोज्ञ- शब्दे द्रष्टव्यः ॥


शब्दकल्पद्रुमः

शोभनः || पुं, (शुभ + ल्युः ।)
ग्रहः । इति धरणिः ॥ विष्कम्भादिसप्तविंशतियोगान्तर्गतपञ्चमयोनः । इति मेदिनी ॥ तत्र जातफलम् । “स्याच्छोभनः शोभनयोगजन्मा दक्षो विपक्षप्रतिलब्धवित्तः । सदुत्तरश्चारुवपुः सुंधीरः संमानयुक्तो मनुजः प्रवीणः ॥” इति कोष्ठीप्रदीपः ॥



Correction: