संस्कृत-शब्दकोशः

शोभा शोली

शोभाञ्जन

वाचस्पत्यम्

शोभाञ्जन ||‍ पु० शोभायै अज्यते अन्ज—ल्युट् । (शजना) वृक्षे अमरः “तद्वीजं श्वेतमरिचं मधुशिग्रुः स लोहितः । शिग्रुः कटुः कटुः पाके तीक्ष्णोष्णो मधुरो लघुः । दीपनो रोश्चनो रूक्षः क्षवस्तिक्तो विदाहकृत् । संग्राह्यशुक्रलो हृत्यः पित्तरक्तपकोपणः । चक्षुष्यः कफवातघ्नो विद्रधि श्वपयक्रमीन् । मेदोऽपचीविषप्लीहमुल्मगण्डव्रणान् हरेत् । श्वेतः प्रोक्तगुणो ज्ञेयो विशेषात् दाहकृत् भ- वेत् । प्लीहानं विद्रधिं हन्ति ग्रणघ्नः पित्तरक्तकृत् । रक्तशिग्रुः प्रोक्तगुणो विशेषाद्विपनः सरः । शिग्रुवल्- कलपत्त्राणां स्वरसः परमार्त्तिहृत् । चक्षुष्यं शिग्रुजं वीजं तीक्ष्णोष्णं विषनाशनम् । सुवृष्यं कफवातघ्नं तन्नस्यं तु शिरोर्त्तिनुत् । शिग्रुशाकं हिमं स्वादु चक्षुष्यं वातपित्तहृत् । वृंहणं श्रुक्रकृत् स्निन्धं रुच्यं गदक्रमि- प्रणुत् । शिग्रोः पुष्पन्तु कटुकं स्निग्धोष्णं स्नायुशोथनुत् । छमिहृत् कफवातघ्नं विद्रधिप्लीहगुल्मजित् । शोमा- ञ्जनफलं स्वादु कषायं कफपिक्षनुत् । शूलकुष्ठक्षयश्वास गुल्महृत् दीपनं परम्” भावप्र० । अधिकं शिग्रुशब्दे दृश्यम् ।


शब्दकल्पद्रुमः

शोभाञ्जनः || पुं, (शोभं रुचिरं अञ्जनं यस्मात् ।)
वृक्षविशेवः । शजिना इति भाषा । तत्पर्य्यायः । शिग्रुः २ तीक्ष्णगन्धकः ३ अक्षीवः ४ मोचकः ५ । इत्यमरः ॥ तीक्ष्णगन्धः ६ सुतीक्ष्णः ७ घन- पल्लवः ८ श्वेतमरिचः ९ । इति जटाधरः ॥ तीक्ष्णः १० गन्धः ११ गन्धकः १२ काक्षीवकः १३ आक्षीवः १४ शुभाञ्जनः १५ स्त्रीचित्तहारी १६ द्रविणनाशनः १७ । इति शब्दरत्नावली ॥ कृष्णगन्धा १८ मूलकपर्णी १९ । इति रत्नमाला ॥ नीलशिग्रुः २० जनप्रियः २१ मुखमोदः २२ कृष्णशिग्रुः २३ चक्षुष्यः २४ रुचिराञ्जनः २५ । अस्य गुणाः । तीक्ष्णत्वम् । कटुत्वम् । स्वादु- त्वम् । उष्णत्वम् । पिच्छिलत्वम् । जन्तुवातार्त्ति- शूलनाशित्वम् । चक्षुर्हितत्वम् । रोचनत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “शोभाञ्जनः कटुस्तिक्तः शोथविद्रधिगुल्मनुत् ।” इति राजवल्लभः ॥ अन्यच्च । अथ शोभाञ्जनः श्यामः श्वेतः रक्तश्च । “शोभाञ्जनशिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः । तद्बीजं श्वेतमरिचं मधुशिग्रः सलोहितः ॥ शिग्रुः कटुः कटुः पाके तीक्ष्णोष्णो मधुरो लघुः । दीपनो रोचनो रूक्षः क्षवस्तिक्तो विदाहकृत् ॥ संग्राह्यशुक्रलो हृद्यः पित्तरक्तप्रकोपणः । चक्षुष्यः कफवातघ्नो विद्रधिश्वयथुकृमीन् ॥ मेदोपचीविषप्लीहगुल्मगण्डव्रणान् हरेत् । श्वेतः प्रोक्तगुणो ज्ञेयो विशेषाद्दाहकृद्भवेत् ॥ प्लीहानं विद्रधिं हन्ति व्रनघ्नः पित्तरक्तकृत् । मधुशिग्रुः प्रोक्तगुणो विशेषाद्दीपनः सरः । शिग्रुवल्कलपत्राणां स्वरसः परमार्त्तिहृत् ॥ * ॥
क्षक्षुष्यं शिग्रुजं बीञं तीक्ष्णोष्णं विषनाशनम् । सवृष्यं कफवातघ्नं तन्नस्येन शिरोऽर्त्तिनुत् ॥ शिग्रु शाकं हिमं स्वादु चक्षुष्यं वातपित्तहृत् । बृंहणं शुक्रकृत् स्निग्धं रुच्यं मदकृमिप्रणुत् ॥” अस्य पुष्पगुणाः । “शिग्रोः पुष्पन्तु कटुकं तीक्ष्णोष्णं स्नायुशोथनुत् । कृमिहृत् कफवातघ्नं विद्रधिप्लीहगुल्मजित् ॥” अस्य फलगुणाः । “शोभाञ्जनफलं स्वादु कषायं कफपित्तनुत् । शूलकुष्ठक्षयश्वासगुल्महृत् दीपनं परम् ॥” इति भावप्रकाशः ॥ अथ रक्तशोभानपर्य्यायः । “सुरङ्गी स्वादुगन्धा च मधुलग्नः शुभाञ्जनः ॥” इति रत्नमाला ॥ अन्यच्च । “रक्तशोभाञ्जने तुल्यौ मधुशिग्रु मधुद्रवौ ।” इति शब्दरत्नावली ॥ अस्य पुष्पगुणाः । “मधुशिग्रोस्त्वक्षिहितं रक्तपित्तप्रसादनम् ॥” इति भावप्रकाशः ॥ अन्यत् रक्तशिग्रु शब्दे द्रष्टव्यम् ॥



Correction: