वाचस्पत्यम्
शोभा || स्त्री शुभ—अ । १ दीप्तौ “सा शोभा रूपभोगाद्यैर्यत् स्यादङ्गविमूषणम् । शोभैव सान्तिराख्याता मन्मथा- प्यायनोज्ज्वला” उज्ज्वलमण्युक्तार्थे च ३ गोपीभेदे ब्रह्म- वै० प्र० ९ अ० । ४ हरिद्रायां ५ गोरोचनायां राजनि० ।
शब्दकल्पद्रुमः
शोभा || स्त्री शोभन्तेऽनया । (शुभ + करणे घञ् । टाप् ।)
दीप्तिः । तत्पर्य्यायः । कान्तिः २ द्युतिः ३ छविः ४ । इत्यमरः ॥ द्युती ५ छवी ६ इति तट्टीका ॥ अभिख्या ७ । इति जटाधरः ॥ शुभा ८ भाः ९ श्रीः १० भासा ११ भा १२ इति शब्दरत्नावलौ ॥ सुषमा १३ छाया १४ विभा १५ दृक्प्रिया १६ भानम् १७ भातिः १८ कमा १९ रमा २० । इति राजनिर्घण्टः ॥ तस्या लक्षणम् । “सा शोभा रूपभोगाद्यैर्यत् स्यादङ्गविभूषणम् । शोभैवकान्तिराख्याता मन्मथाप्यायनोज्ज्वला ॥” इत्युज्ज्वलनीलमणिः ॥ * ॥
गोपीविशेषः । यथा, —
“दृष्टस्त्वं शोभया गोप्या युक्तश्चन्दनकानने । सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ॥ शोभा देहं परित्यज्य जगाम चन्द्रमण्डलम् । ततस्तस्याः शरीरञ्च स्निग्धं तेजो बभूव ह ॥ संविभज्य त्वया दत्तं हृदयेन विदूयता । रत्नाय किञ्चित् स्वर्णायकिञ्चिन्मणिवराय च ॥ किञ्चित् स्त्रीणां मुखाब्जेभ्यः किञ्चिदब्जाय किञ्चन । किञ्चित् किशलयेभ्यश्च पुष्पेभ्यश्चापि किञ्चन ॥ किञ्चिच्चन्दनपङ्के भ्यस्तोयेभ्यश्चापि किञ्चन । किञ्चित् फलेभ्यः शस्येभ्यः सुपक्के भ्यश्च किञ्चन । किञ्चिन्नूतनवस्त्रेभ्यो दुग्धे भ्यश्चापि किञ्चन ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ९ अध्यायः ॥ * ॥
हरिद्रा । गोरोचना । इति राजनिर्घण्टः ॥