शोषित
शौकर
शौक
वाचस्पत्यम्
शौक || न० शुकान समूहः अण् । १ शुकसमुदाये अमरः । शूकोऽस्त्यत्र णः । स्त्रीणां २ करणमेदे राजनि० ।
शब्दकल्पद्रुमः
शौकं || क्ली (शुकानां समूहः । शुक + “खण्डि- कादिभ्यश्च ।” ४ । २ । ४५ । इत्यञ् ।)
शुक- गणः । इत्यमरः ॥ स्त्रीणां करणम् । इति मेदिनी ॥