वाचस्पत्यम्
शौण्ड || त्रि० शुण्डायां सुरायाममिरतः अण् । १ मत्ते अमरः । २ दक्षेच “सप्तमी शौण्डैः” पा० । ७ त० । दामशौण्ड दानदक्षे ।
शब्दकल्पद्रुमः
शौण्डः || त्रि (शुण्डायां मद्ये रतः । शुण्डा + अण् । मत्तः । इत्यमरः ॥ (यथा, महाभारते । ३ २३३ । ११ । “चण्डाश्च शौण्डाश्च महाशनाश्च चौराश्च दुष्टाश्च पलाश्च वर्ज्ज्याः ॥”)