संस्कृत-शब्दकोशः

शौद्धोदनि शौधिका

शौद्र

वाचस्पत्यम्

शौद्र ||‍ पुंस्त्री शूद्रायां दिलातिभिकढायां भवः अण् । द्वादश- पुत्त्रमव्ये शूद्राशाते द्विजातिपुत्त्रभेदे पारशबादौ जटा० । स्त्रियां ङीष् । इदमर्थे अण् । २ शूद्रमस्वन्धिनि त्रि० ।


शब्दकल्पद्रुमः

शौद्रः || पुं, (शूद्रायां भवः । शूद्रा + अण् ।)
द्वादश- विधपुत्त्रान्तर्गतपुत्त्रविशेषः । स तु ब्राह्मण- क्षत्त्रियवैश्यान्यतमात् शूद्रायां जातः । यथा, —
“औरसः क्षेत्रजो दत्तो मूढोत्पन्नश्च कृत्रिमः । क्रीतापविद्धकानीनशौद्रपौनर्भवा अपि ॥ स्वयं दत्तः सहोढोऽपि द्वावुरस्यौरसौ समौ ॥” इति जटाधरः ॥ (यथा, मनुः । ९ । १६० । “कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा । स्वय दत्तश्च शौद्रश्च षडदायादबान्धवाः ॥” * ॥
शूद्रस्येदमिति । अण् ।)
शूद्रसम्बन्धिनी, स्त्रि, ॥ (यथा, महाभारते । १२ । ६२ । ४ । “क्षात्त्राणि वैश्यानि च सेवमानः शौद्राणि कर्म्माणि च ब्राह्मणः सन् । अस्मिंल्लोके निन्दितो मन्दचेताः परे च लोके निरयं प्रयाति ॥”)



Correction: