वाचस्पत्यम्
शौनिक || पु० शूना प्राणिबधस्थानं प्रयोजनमस्य ठक् । १ मांस- विक्रेतरि (कसाइ) हेमच० । २ मृगयायां शब्दमा० । ३ मृगयाशीले च ।
शब्दकल्पद्रुमः
शौनिकः || (शूना प्राणिवधस्थानं प्रयोजनमस्य । शूना + ठक् ।)
मांसविक्रयकर्त्ता । यथा, — ‘वैतं सिकःकौटिकश्च मांसिकः शौनिकः समाः ।’ इति जटाधरः हेमचन्द्रश्च ॥ मृगया । इति शब्दमाला ॥