संस्कृत-शब्दकोशः

शौल्क शौल्किकेय

शौल्किक

वाचस्पत्यम्

शौल्किक ||‍ पु० शुल्के राजादिदेये करे तदादाने अधिकृतः ठक् । शुल्कादानाधिकृते हेमच० ।


शब्दकल्पद्रुमः

शौल्किकः || पुं, (शुल्के अधिकृतः । शुल्क + ठञ् ।)
शुल्काध्यक्षः । इति हेमचन्द्रः ॥ (यथा, याज्ञ- वल्क्ये । २ । १७६ । “शौल्किकैः स्थानपालैर्व्वा नष्टापहृतमाहृतम् । अर्व्वाक्संवत्सरात् स्वामी हरेत परतो नृपः ॥”)



Correction: