वाचस्पत्यम्
शौल्किकेय || पु० शुल्किकः देशभेदः तत्र भवः ढक् । विष- भेदे अमरः ।
शब्दकल्पद्रुमः
शौल्किकेयः || पुं, विषभेदः । इत्यमरः ॥ शुल्किको देशभेदस्तत्र भवः शौल्किकेयः । ष्णेयः । ताल- व्यांदिः । इति भरतः ॥