संस्कृत-शब्दकोशः

शौल्किकेय शौल्विक

शौल्फ

शब्दकल्पद्रुमः

शौल्फं || क्ली शाकविशेषः । शुल्फा इति भाषा । भूतचतुर्द्दश्यां चतुर्दशशाकमध्ये तद्भक्षणीयम् । यथा, निर्णयामृते । “ओलं केमुकवास्तूकं सर्षपं कालञ्च निम्बं जयां शालीञ्चीं हिलमोचिकाञ्च पटुकं शौल्फं गुडुचीन्तथा । भण्टाकीं सुनिसन्नकं शिवदिने खादन्ति ये मानवाः प्रेतत्वं न च यान्ति कार्त्तिकदिने कृष्णे च भूते तिथौ ॥” इति तिथ्यादितत्त्वम् ॥ अस्य पर्य्यायगुणाः शतपुष्पाशब्दे द्रष्टव्याः ॥



Correction: