वाचस्पत्यम्
शौवस्तिक || त्रि० श्व परदिने भवः श्वस् + ठक्—तुट् च । भाविदिनस्थायिनि पदार्थे ।
शब्दकल्पद्रुमः
शौवस्तिकं || त्रि (श्वो भवम् । श्वस् + “श्वसस्तुट् च ।” ४ । ३ । १५ । इति ठञ तुडागमश्च ।)
भाविदिनस्थायिवस्तु । यथा, — आत्मम्भरिस्त्वं पिशितैर्नराणां फलेग्रहीन् हंसि वनस्पतीनाम् । शौवस्तिकत्वं विभवा न येषां व्रजन्ति तेषां दयसे न कस्मात् ॥” इति भट्टौ २ सर्गः ॥ “येषां विभवाः सम्पदः शौवस्तिकत्वं भाविदिन- स्थितत्वं न व्रजन्ति तेषां कस्मान्न दयसे । श्वो- भवः शौवस्तिकः श्वसो भवार्थे कण्विधानात् कणि मनीषादित्वात् त्यागमः द्वारस्वरेतिउम् णित्त्वे व्रिरिति व्रिः त्वतौ भावे इति त्वम् ।” इति तट्टीकां ॥