संस्कृत-शब्दकोशः

शौवापद श्चुत

शौष्कल

वाचस्पत्यम्

शौष्कल ||‍ पु० शुष्कलं शुष्कमांसं पण्यमस्य अण् । १ शुष्कमांस- विक्रेतरि मेदि० । तद्भक्ष्यमस्य अण् । २ शुष्कमांसभक्षके त्रि० अमरः ।


शब्दकल्पद्रुमः

शौष्कलः || त्रि (शुष्कलीमत्तीति । शुष्कली + अण् ।)
आमिषाशी । इत्यमरः ॥ मत्स्यमांस- भोजनशीलः । आमिषं अश्नाति आमिषाशी ग्रहादित्त्वाण्णिन् । शुष्कली शुष्कमांसे स्या- न्मांसमात्रेऽपि दृश्यते । तामत्ति शौष्कलः ष्णः । तालव्यादिमूर्द्धन्यमध्यः । शुष्कं मांसं लाति इति शुष्कलः प्रज्ञादित्वात् अणि शौष्कलः । इति विद्याविनोदः । शाष्कलः इति पाठः । इति स्वामी । इति भरतः ॥


शब्दकल्पद्रुमः

शौष्कलः || पुं, (शुष्कलं पण्यमस्येति । अण् ।)
शुष्कमांसस्य पणकः । इति मेदिनी ॥



Correction: