वाचस्पत्यम्
श्मशान || न० श्मानः शवाः शेरतेऽत्र शी—आनच् डिच्च । “श्मन् शब्देन शवः प्रोक्तः शानं शयनमुच्यते । निर्वचन्ति श्मशानार्थं मुने! शब्दार्थकोविदाः । महान्त्यपि च भू- तानि प्रलये समुपस्थिते । शेरतेऽत्र शवो भूत्वा श्मशानन्त त्ततोऽभवत्” महाभूतलयस्थाने महाश्मशाने १ काश्याम् कालिकापुराणे ३० अ० । २ शवदाहस्थाने अमरः ।
शब्दकल्पद्रुमः
श्मशानं || क्ली (श्मनां शवानां शानं शयनं यत्र । यद्वा, शवानां शयनमिति । “पृषोदरादीनि यथोपदिष्टानि ।” ६ । ३ । १०९ । इति शव- शब्दस्य श्मादेशः शयनशब्दस्यापि शानशब्द आदेशः ।)
शवदाहस्थानम् । तत्पपर्य्यायः । पितृवनम् २ । इत्यमरः ॥ शतानकम् ३ रुद्रा क्रीडः ४ दाहसरः ५ इति त्रिकाण्डशेषः ॥ अन्तशय्या ६ पितृकाननम् ९ । इति जटा- धरः ॥ * ॥
तस्य व्युत्पत्तिर्यथा, —
“श्मशब्देन शवः प्रोक्तः शानं शयनमुच्यते । निर्व्वचन्ति श्मशानार्थं मुने शब्दार्थकोविदाः ॥ महान्त्यपि च भूतानि प्रलये समुपस्थिते । शेरतेऽत्र शवा भूत्वा श्मशानन्तु ततो भवेत् ॥” महाश्मशानं यथा, —
“वाराणसीति विख्याता रुद्रावास इति द्विजाः । महाश्मशानमित्येवं प्रोक्तमानन्दकाननम् ॥” इति श्रीस्कान्दे काशीखण्डे ३० अध्यायः ॥ * ॥
“उत्सवे व्यसने चैव दुर्भिक्षे शत्रु विग्रहे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥” इति चाणक्यम् । १७ ॥ * ॥
श्मशाने गत्वा विष्णुस्पर्शे दोषो यथा, — वराह उवाच । “श्मशानं यो नरो गत्वा अस्नात्वैव तु मां- स्पृशेत् । मम दोषापराधस्य शृणु तत्त्वेन यत् फलम् ॥ जम्बुको जायते भूमे वर्षाणां नव पञ्च च । गृध्रस्तु सप्तवर्षाणि जायते खचरेश्वरः ॥ चरन्तौ मानुषं मांसं उभौ तौ गृध्रजम्बु कौ । पिशाचो जायते तत्र वर्षाणि नव पञ्च च ॥ ततस्तु कुणपोच्छिष्टं त्रिं शद्धर्षाणि खादति । ततो नारायणाच्छ्रु त्वा धरणी वाक्यमब्रवीत् ॥ एतन्मे परमं गुह्यं लोकनाथ जनार्द्दन । परं कौतूहलं देव निखिलं वक्तुमर्हसि ॥ श्मशानं पुण्डरीकाक्ष ईश्वरेण प्रशंसितम् । तत्र किं विगुणं देव पावित्रे शिवभाषिते ॥ स तत्र रमते नित्यं भगवांस्तु महाद्युतिः । कपालं गृह्य देवोऽत्र दीप्तिमन्तं महौजसम् ॥ प्रशंसितञ्च रुद्रेण भवता किं विनिन्दितम् । श्मशाणं पद्मपत्राक्ष रुद्रस्य च निशि प्रियम् ॥ वराह उवाच । शृणु तत्त्वे न मे देवि इदमाख्यानमुत्तमम् । अद्यापि ते न जानन्ति अनघे शंसितव्रताः ॥ कृत्वा सुदुष्करं कर्म्म सर्व्वभूतपतिर्हरः । हत्वा च बालवृद्धानि त्रिपुरे रूपिणीः स्त्रियः ॥ तेन पापेन सम्बद्धो न शक्नोति विचेष्टितुम् । तत ईशो मया चोक्तो वाक्यमेव सुखावहम् ॥ किमिदं तिष्ठसे रुद्र कश्मलेन समावृतः । तव चैव प्रियार्थाय येनाहमिदमागतः ॥ ततो मम वचः श्रुत्वा लब्धसंज्ञो महेश्वरः । उवाच मधुरं वाक्यं पापसन्तप्तलोचनः ॥ तव विष्णो प्रसादेन मया तत्त्रिपुरं हतम् । निहता दानवास्तत्र गर्भिण्यश्च निपातिताः ॥ बालवृद्धा हतास्तत्र विष्फुरन्तो दिशो दश । तस्य पापस्य दोषेण न शक्नोमि विचेष्टितुम् ॥ प्रनष्टयोगमायश्च नष्टेश्वर्य्यश्च माधव । किं मया विप्रकर्त्तव्यमेनोऽवस्थेन माधव ॥ विष्णो तत्त्वेन मे ब्रूहि शोधनं पापनाशनम् । येन वै कृतमात्रेण शीघ्नं मुच्येत किल्विषात ॥ एवं चिन्तात्मनस्तत्र मया रुद्रस्य भाषितम् । कपालमालां संगृह्य समलं गच्छ शङ्कर ॥ ममैवं वचनं श्रुत्वा भगवान् परमेश्वरः । उवाच मां पुनर्व्यक्तं मां बोधय जगत्पते ॥ कीदृशः समलो विष्णो यत्र गच्छामहे वयम् ॥ ततस्तस्य वचः श्रुत्वा शङ्करस्य यशस्विनि । तत्पापशोधनार्थाय मयावासं प्रभाषितम् ॥ श्मशानं समलो रुद्र पूतिको व्रणगन्धिकः । स्वयं तिष्ठति वै तत्र मनुजा विगतस्पृहाः ॥ तत्र गृह्य कपालानि रम तत्रैव शङ्कर । तत्र वर्षसहस्राणि दिव्यान्येव दृढव्रतः ॥ ततो भक्षय मांसानि पापक्षयचिकीर्षुकः । हिंस्यमानानि भोज्यानि ये च भोज्यास्तव प्रियाः एवं सर्व्वैर्गणैः सार्द्धं रम तत्र सुनिश्चितः । पूर्णे वर्षसहस्रे तु स्थित्वा त्वं समले पुनः ॥ एष्यसि स्वाश्रमं पुण्यं गौतमस्य महामुनेः । तत्र ज्ञास्यसि चात्मानं आश्रमे विधिसंस्थिते ॥ प्रसादात् गोतमस्याथ भविता गतकिल्विषः । एवं तस्य वरं दत्त्वा तत्रै वान्तरधीयत ॥ रुद्रोऽपि भ्रमते तत्र श्मशाने पापसंवृते । एवं न रोचते भूमे श्मशानं मे कदाचन ॥ यत्र रुद्रकृतं पापं स्थितं किल भयावहम् । एतत्ते कथितं भद्रे श्मशानं मे जुगुप्सितम् ॥ विष्ट्वापि कृतसंस्कारो मम कर्म्मपरायणः । प्रायश्चित्तं प्रवक्ष्यामि येन शुध्यति किल्विषात् कृत्वा चतुर्थभक्षन्तु दिनानि दश पञ्च च । आकाशशयनं कुर्य्यात् एकभक्तः कुशास्तरे ॥ प्रभाते पञ्चगव्यन्तु पातव्यं कर्म्मशोधनम् । प्रमुक्तः सर्व्वपापेभ्यो मम लोकाय गच्छति ॥” इति वाराहे श्मशानप्रवेशापराधप्रायश्रित्त- नामाध्यायः ॥