संस्कृत-शब्दकोशः

श्मशानवासिनी श्मशानवेश्मन्

श्मशानवासिन्

वाचस्पत्यम्

श्मशानवासिन् ||‍ पु० श्मशाने वसति वस—णिनि । १ महादेवे २ वटुकभैरवे च । श्मशानबासकर्त्तरि चण्डालादौ त्रि० ।


शब्दकल्पद्रुमः

श्मशानवासी || [न्] पुं, (श्मशाने वसतीति । वस + णिनिः ।)
शिवः । यथा, —
“क्षेत्रपः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट् । श्मशानवासौ मांसाशी खर्पराशी मखान्तकृत् ॥” इति वटुकभैरवस्तोत्रम् ॥ * ॥
श्मशाने वासकर्त्तरि, त्रि, । यथा । शवसम्बन्धि वस्त्रादिकं श्मशानवासिचण्डालादिभ्यो दद्यात् इति शुद्धितत्त्वम् ॥



Correction: