वाचस्पत्यम्
श्मश्रुमुखी || स्त्री श्मश्रु मुखे यस्याः ङीप् । १ पुरुषलक्षणयु- क्तायां २ पोटाख्यायां स्त्रियां जटा० ।
शब्दकल्पद्रुमः
श्मश्रुमुखी || स्त्री (श्मश्रु मुखे यस्याः । ङीष् ।)
श्मश्रु युक्ता नारी । तत्प्रर्य्यायः । पालिः २ पाली ३ । इति शब्दरत्नावली ॥ पोटा ४ । इति जटाधरः ॥