वाचस्पत्यम्
श्याम || पु० श्यै—मक् । १ वृद्धदारकवृक्षे २ प्रयागतीर्थस्थे वटे ३ कोकिले ४ मेघे ६ कृष्णवर्णे ६ हरिद्वर्णे च । ७ तद्वति त्रि० मेदि० । ८ धुस्तूरे ९ पीलुवृक्षे १० श्यामाके राजनि० । ११ मरिचे १२ सिन्धुजलबणे च न० मेदि० । १३ दमनकवृक्षे १४ गन्धतृणे पु० विश्वः । ईषद्भेदेऽपि कृष्णश्यामनीलादीनाममरादौ पर्य्यायता तत्र कृष्णवस्तूनि कतिचित् कविकल्पलतायां दर्शितानि यथा “कृष्णानि केशवः सीरिचीरं चन्द्राङ्कराहवः । विन्ध्या- ञ्जनाद्रिवृक्षाहिवनभैरवराक्षसाः । शिवकण्ठधनद्वैपा- यनरामधनञ्जयाः । शनिः द्रुपदजा काली कलिकोलय- माऽसुराः । केशकज्जलकस्तूरीराजपट्टविदुरजम् । विषकोषकुहूशस्त्रागुरुपापतमोनिशाः । मसोपङ्कमटा- म्भोधियमुनाधूमकोकिलाः । गोलाङ्गूलास्यगुञ्जास्ये कण्ठः णञ्जनकेकिनोः । शबलं तालतापिञ्जतिलेन्दीवरवल्लयः । रसावद्भुतशृङ्गारौ कटाक्षोऽलिः कनीनिका । नीली जम्बूफलं मुस्ता काककृत्याकुकीर्त्तयः । भिन्नच्छाया गजाङ्गारखलान्तःकरणादवः” ।
शब्दकल्पद्रुमः
श्यामः || त्रि (श्यायते मनो यस्मात् । श्यै + मक् ।)
कृष्णगुणविशिष्टः । (यथा, मनुः । ७ । २५ । “यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥”)
हरिद्गुणविशिष्टः । इत्यमरः ॥
शब्दकल्पद्रुमः
श्यामः || पुं, (श्यै + मक् ।)
प्रयागस्य वटः । (यथा रघुः । १३ । ५३ । “त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः । राशिर्मणीनामिव गारुडानां सपद्मरागः फलितो विभाति ॥”)
मेघः । वृद्धदारकः । कोकिलः । कृष्णवर्णः । हरिद्वर्णः । इति मेदिनी ॥ धुस्तूरः । पीलु- वृक्षः । श्यामाकः । इति राजनिर्घण्टः ॥ दम- नकवृक्षः । गन्धतृणम् । इति विश्वः ॥ * ॥
श्यामवस्तूनि यथा, — कृष्णानि केशवः सीरिचीरं चन्द्राङ्कराहवः । विन्ध्याञ्जनाद्रिवृक्षाहिवनभैरवराक्षसाः ॥ शिवकण्ठघनद्वैपायनरामधनञ्जयाः । शनिर्द्रुपदजा काली कलिकोलयमासुराः ॥ केशकज्ज्वलकस्तूरीराजपट्टविदूरजम् । विषकोषकुहूशस्त्रागुरुपापतमोनिशाः ॥ मसीपङ्कमदाम्भोधियमुनाधूमकोकिलाः । गोलाङ्गुलास्यगुञ्जास्ये कण्ठः खञ्जनकेकिनोः ॥ शवलं तालतापिञ्जतिलेन्दीवरवल्लयः । रसविद्भूतशृङ्गारौ कटाक्षोऽलिः कणीनिका ॥ नीली जम्बूफलं मुस्ता काककृत्याकुकीर्त्तयः । भिन्नश्छाया गजाङ्गारखलान्तःकरणादयः ॥” इति कविकल्पलतायां २ श्लेषस्तवके ४ कुसुमम् ॥